केवलचैतन्यस्य जडबुद्धिवृत्तेरिव अज्ञानाद्यनाशकत्वम् आशङ्क्य, विशिनष्टि -
आत्मेति ।
तस्य आशयः - तन्निष्ठो वृत्तिविशेषः । वाक्योत्थबुद्धिवृत्त्यभिव्यक्तः चिदात्मा सहायसामर्थ्यात् अज्ञानादिनिवृत्तिहेतुः, इत्यर्थः ।
बुद्धीद्धबोधस्य अज्ञानादिनिवर्तकत्वम् उक्त्वा, बोधेद्धबुद्धेः तन्निवर्तकत्वम् , इति पक्षान्तरम् आह -
ज्ञानेति ।
देहाद्यव्यक्तान्तानात्मवर्गातिरिक्तवस्तु आह -
विवेकेति ।
भगवति सदा विहितया भक्त्या, तस्य प्रसादः - अनुग्रहः, स एव स्नेहः, तेन आसेचनद्वारा अस्य उत्पत्तिम् आह -
भक्तीति ।
मय्येव भावनायाम् अभिनिवेशो वातः, तेन प्रेरितोऽयं जायते । न हि वातप्रेरणम् अन्तरेण दीपस्य उत्पत्तिः, इत्याह -
मद्भावनेति ।
ब्रह्मचर्यम् अष्टाङ्गम् । आदिशब्देन शमादिग्रहः । तेन हेतुना आहितसंस्कारवति या प्रज्ञा, तथाविधवर्तिनिष्ठश्च अयम् , न हि वर्त्यतिरेकेण निर्वर्त्यते, तदाह –
ब्रह्मचर्येति ।
न च आधाराद् ऋते दीपस्य उत्पत्तिः, अदृष्टत्वात् , इत्याह -
विरक्तेति ।
यद् विषयेभ्यो व्यावृत्तं चित्तं रागाद्यकलुषितम् , तदेव निवातम् अपवरकम् । तत्र स्थितत्वम् अस्य दर्शयति -
विषयेति ।
भास्वतेति विशेषणं विशदयति -
नित्येति ।
सदातनं चित्तैकाग्र्यम् , तत्पूर्वकन्ध्यानम् , तेन जनितं सम्यग्दर्शनं फलम् , तदेव भाः तद्वता तत्पर्यन्तेन, इत्यर्थः ।
तेन अज्ञाने सकार्ये निवृत्ते, भगवद्भावः स्वयमेव प्रकाशीभवति इति मत्वा, व्याख्यातममेव पदम् अनुवदति -
ज्ञानेति
॥ ११ ॥