श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तेषामेवानुकम्पार्थमहमज्ञानजं तमः
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
तेषामेव कथं नु नाम श्रेयः स्यात् इति अनुकम्पार्थं दयाहेतोः अहम् अज्ञानजम् अविवेकतः जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमः नाशयामि, आत्मभावस्थः आत्मनः भावः अन्तःकरणाशयः तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना विरक्तान्तःकरणाधारेण विषयव्यावृत्तचित्तरागद्वेषाकलुषितनिवातापवरकस्थेन नित्यप्रवृत्तैकाग्र्यध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेनेत्यर्थः ॥ ११ ॥

केवलचैतन्यस्य जडबुद्धिवृत्तेरिव अज्ञानाद्यनाशकत्वम् आशङ्क्य, विशिनष्टि -

आत्मेति ।

तस्य आशयः - तन्निष्ठो वृत्तिविशेषः । वाक्योत्थबुद्धिवृत्त्यभिव्यक्तः चिदात्मा सहायसामर्थ्यात् अज्ञानादिनिवृत्तिहेतुः, इत्यर्थः ।

बुद्धीद्धबोधस्य अज्ञानादिनिवर्तकत्वम् उक्त्वा, बोधेद्धबुद्धेः तन्निवर्तकत्वम् , इति पक्षान्तरम् आह -

ज्ञानेति ।

देहाद्यव्यक्तान्तानात्मवर्गातिरिक्तवस्तु आह -

विवेकेति ।

भगवति सदा विहितया भक्त्या, तस्य प्रसादः - अनुग्रहः, स एव स्नेहः, तेन आसेचनद्वारा अस्य उत्पत्तिम् आह -

भक्तीति ।

मय्येव भावनायाम् अभिनिवेशो वातः, तेन प्रेरितोऽयं जायते । न हि वातप्रेरणम् अन्तरेण दीपस्य उत्पत्तिः, इत्याह -

मद्भावनेति ।

ब्रह्मचर्यम् अष्टाङ्गम् । आदिशब्देन शमादिग्रहः । तेन हेतुना आहितसंस्कारवति या प्रज्ञा, तथाविधवर्तिनिष्ठश्च अयम् , न हि वर्त्यतिरेकेण निर्वर्त्यते, तदाह –

ब्रह्मचर्येति ।

न च आधाराद् ऋते दीपस्य उत्पत्तिः, अदृष्टत्वात् , इत्याह -

विरक्तेति ।

यद् विषयेभ्यो व्यावृत्तं चित्तं रागाद्यकलुषितम् , तदेव निवातम् अपवरकम् । तत्र स्थितत्वम् अस्य दर्शयति -

विषयेति ।

भास्वतेति विशेषणं विशदयति -

नित्येति ।

सदातनं चित्तैकाग्र्यम् , तत्पूर्वकन्ध्यानम् , तेन जनितं सम्यग्दर्शनं फलम् , तदेव भाः तद्वता तत्पर्यन्तेन, इत्यर्थः ।

तेन अज्ञाने सकार्ये निवृत्ते, भगवद्भावः स्वयमेव प्रकाशीभवति इति मत्वा, व्याख्यातममेव पदम् अनुवदति -

ज्ञानेति

॥ ११ ॥