धामशब्दस्य स्थानवाचित्वं व्यावर्तयन् व्याचष्टे -
तेज इति ।
तस्य चैतन्यस्य परमत्वं जन्मादिराहित्येन कौटस्थ्यम् । प्रकृष्टम् पावनम् - अत्यन्तशुद्धत्वम् उच्यते । यदेवंलक्षणं पर ब्रह्म, तद्भवानेव, नान्यः इत्यर्थः ।
कुतः त्वम् एवम् अज्ञासीः? इत्याशङ्क्य, आप्तवाक्यात् , इत्याह -
पुरुषमिति ।
दिवि - परमे व्योम्नि भवतीति दिव्यः, तं सर्वप्रपञ्चातीतम् दीव्यति - द्योतते इति देवः, स चादिः सर्वमूलत्वात् , अत एव अजः, तं त्वां सर्वगतम् आहुः इति सम्बन्धः
॥ १२ ॥