श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
परं ब्रह्म परं धाम पवित्रं परमं भवान्
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥
परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान्पुुुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदिदेवं सर्वदेवानाम् आदौ भवम् आदिदेवम् अजं विभुं विभवनशीलम् ॥ १२ ॥

धामशब्दस्य स्थानवाचित्वं व्यावर्तयन् व्याचष्टे -

तेज इति ।

तस्य चैतन्यस्य परमत्वं जन्मादिराहित्येन कौटस्थ्यम् । प्रकृष्टम् पावनम् - अत्यन्तशुद्धत्वम् उच्यते । यदेवंलक्षणं पर ब्रह्म, तद्भवानेव, नान्यः इत्यर्थः ।

कुतः त्वम् एवम् अज्ञासीः? इत्याशङ्क्य, आप्तवाक्यात् , इत्याह -

पुरुषमिति ।

दिवि - परमे व्योम्नि भवतीति दिव्यः, तं सर्वप्रपञ्चातीतम्  दीव्यति - द्योतते इति देवः, स चादिः सर्वमूलत्वात् , अत एव अजः, तं त्वां सर्वगतम् आहुः इति सम्बन्धः

॥ १२ ॥