सर्वेषां सुगमत्वाय अवयवशः विभूतिमुक्त्वा भक्तानुग्रहार्थं साकल्येन तमाह -
अथवेति ।
पक्षान्तरपरिग्रहार्थं अथवेत्युक्तम् । बहुधा विस्तीर्णेन एतेन संज्ञातेन सावशेषेण तव शक्तस्य न किञ्चित् फलं स्यात् इत्याह -
बहुनेति ।
न हि विभूतिषु उक्तासु ज्ञातासु सर्वं ज्ञायते कासाञ्चिदेव विभूतीनां उक्तत्वात् इत्यर्थः ।
तर्हि केनोपदेशेन अल्पाक्षरेण सर्वोऽर्थो ज्ञातुं शक्यते । तत्राह -
अशेषत इति ।
विशेषतः स्तम्भनं विधरणं सर्वभूतस्वरूपेण सर्वप्रपञ्चोपादानशक्त्युपाधिकेन एकेन पादेन कृत्स्नं जगत् विधृत्य स्थितोऽस्मि इति सम्बन्धः । तत्रैव श्रुतिं प्रमाणयति -
तथा चेति ।
तदनेन भगवतः नानाविधाः विभूतीः ध्येयत्वेन ज्ञेयत्वेन च उपदिश्यन्ते । सर्वप्रपञ्चात्मकं ध्ये रूपं दर्शयित्वा “त्रिपादस्यामृतं दिवि“ इति प्रपञ्चाधिकं निरुपाधिकं तत्त्वं उपदिशता परिपूर्णसच्चिदानन्दैकतानः तत्पदलक्ष्योऽर्थो निर्धारितः
॥ ४२ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने दशमोऽध्यायः