श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥
अथवा बहुना एतेन एवमादिना किं ज्ञातेन तव अर्जुन स्यात् सावशेषेणअशेषतः त्वम् उच्यमानम् अर्थं शृणुविष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं कृत्स्नं जगत् एकांशेन एकावयवेन एकपादेन, सर्वभूतस्वरूपेण इत्येतत् ; तथा मन्त्रवर्णःपादोऽस्य विश्वा भूतानि’ (ऋ. १० । ८ । ९० । ३) इति ; स्थितः अहम् इति ॥ ४२ ॥

सर्वेषां सुगमत्वाय अवयवशः विभूतिमुक्त्वा भक्तानुग्रहार्थं साकल्येन तमाह -

अथवेति ।

पक्षान्तरपरिग्रहार्थं अथवेत्युक्तम् । बहुधा विस्तीर्णेन एतेन संज्ञातेन सावशेषेण तव शक्तस्य न किञ्चित् फलं स्यात् इत्याह -

बहुनेति ।

न हि विभूतिषु उक्तासु ज्ञातासु सर्वं ज्ञायते कासाञ्चिदेव विभूतीनां उक्तत्वात् इत्यर्थः ।

तर्हि केनोपदेशेन अल्पाक्षरेण सर्वोऽर्थो ज्ञातुं शक्यते । तत्राह -

अशेषत इति ।

विशेषतः स्तम्भनं विधरणं सर्वभूतस्वरूपेण सर्वप्रपञ्चोपादानशक्त्युपाधिकेन एकेन पादेन कृत्स्नं जगत् विधृत्य स्थितोऽस्मि इति सम्बन्धः । तत्रैव श्रुतिं प्रमाणयति -

तथा चेति ।

तदनेन भगवतः नानाविधाः विभूतीः ध्येयत्वेन ज्ञेयत्वेन च उपदिश्यन्ते । सर्वप्रपञ्चात्मकं ध्ये रूपं दर्शयित्वा “त्रिपादस्यामृतं दिवि“ इति प्रपञ्चाधिकं निरुपाधिकं तत्त्वं उपदिशता परिपूर्णसच्चिदानन्दैकतानः तत्पदलक्ष्योऽर्थो निर्धारितः

॥ ४२ ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने दशमोऽध्यायः