श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम्
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
त्वम् अक्षरं क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिःत्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते अस्मिन्निति निधानं परः आश्रयः इत्यर्थःकिञ्च, त्वम् अव्ययः तव व्ययो विद्यते इति अव्ययः, शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतः नित्यः धर्मः तस्य गोप्ता शाश्वतधर्मगोप्तासनातनः चिरन्तनः त्वं पुरुषः परमः मतः अभिप्रेतः मे मम ॥ १८ ॥

कुतो ब्रह्मणो ज्ञातव्यत्वम् ? तत्र आह-

त्वमस्य इति ।

निष्प्रपञ्चस्य ब्रह्मणो ज्ञेयत्वे हेत्वन्तरम् आह-

किञ्चेति ।

अविनाशित्वात् , तवैव ज्ञातव्यत्वात् अतिरिक्तस्य नाशित्वेन हेयत्वात् , इत्यर्थः । ज्ञानकर्मात्मनो धर्मस्य नित्यत्वम् - वेदप्रमाणकत्वम् । ‘धर्मसंस्थापनार्थाय सम्भवामि’ (भ. गी. ४-८) इत्युक्तत्वात् गोप्ता - रक्षिता

॥ १८ ॥