कुतो ब्रह्मणो ज्ञातव्यत्वम् ? तत्र आह-
त्वमस्य इति ।
निष्प्रपञ्चस्य ब्रह्मणो ज्ञेयत्वे हेत्वन्तरम् आह-
किञ्चेति ।
अविनाशित्वात् , तवैव ज्ञातव्यत्वात् अतिरिक्तस्य नाशित्वेन हेयत्वात् , इत्यर्थः । ज्ञानकर्मात्मनो धर्मस्य नित्यत्वम् - वेदप्रमाणकत्वम् । ‘धर्मसंस्थापनार्थाय सम्भवामि’ (भ. गी. ४-८) इत्युक्तत्वात् गोप्ता - रक्षिता
॥ १८ ॥