यस्यां दिशि सविता उदेति, सा पूर्वा दिक् उच्यते । तस्यां व्यवस्थितम् सर्वं त्वमेव । तस्मै ते - तुभ्यं नमो अस्तु, इत्याह-
नम इति ।
अथशब्दः समुच्चये ।
पश्चादपि स्थितं सर्वं त्वमेव । तस्मै ते - तुभ्यं नमो अस्तु इत्याह-
अथेति ।
किं बहुना ? यावन्त्यो दिशः, तत्र सर्वत्र यत् वर्तते तत् अशेषं त्वमेव । तस्मै तुभ्यं प्रह्वीभावः स्यात् इति आह-
नमोऽस्त्विति ।
फलितं सर्वात्मत्वं सूचयति-
हे सर्वेति ।
वीर्यविक्रमयोः न पौनरुक्त्यम् , इत्याह-
वीर्यमित्यादिना ।
वीर्यवतो विक्रमाव्यभिचारात् अर्थपौनरुक्त्यम् आशङ्क्य, आह-
वीर्यवानिति ।
भगवति लोकतो विशेषम् आह-
त्वं त्विति ।
उक्तं सर्वात्मत्वं प्रपञ्चयति-
सर्वमिति ।
सप्रपञ्चत्वं वारयति-
त्वयेति
॥ ४० ॥