श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥
नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम् , अथ पृष्ठतः ते पृष्ठतः अपि ते नमोऽस्तु, ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्वअनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य, अमितः विक्रमः अस्यवीर्यं सामर्थ्यं विक्रमः पराक्रमःवीर्यवानपि कश्चित् शत्रुवधादिविषये पराक्रमते, मन्दपराक्रमो वात्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमःसर्वं समस्तं जगत् समाप्तोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः, ततः तस्मात् असि भवसि सर्वः त्वम् , त्वया विनाभूतं किञ्चित् अस्ति इति अभिप्रायः ॥ ४० ॥

यस्यां दिशि सविता उदेति, सा पूर्वा दिक् उच्यते । तस्यां व्यवस्थितम् सर्वं त्वमेव । तस्मै ते - तुभ्यं नमो अस्तु, इत्याह-

नम इति ।

अथशब्दः समुच्चये ।

पश्चादपि स्थितं सर्वं त्वमेव । तस्मै ते - तुभ्यं नमो अस्तु इत्याह-

अथेति ।

किं बहुना ? यावन्त्यो दिशः, तत्र सर्वत्र यत् वर्तते तत् अशेषं त्वमेव । तस्मै तुभ्यं प्रह्वीभावः स्यात् इति आह-

नमोऽस्त्विति ।

फलितं सर्वात्मत्वं सूचयति-

हे सर्वेति ।

वीर्यविक्रमयोः न पौनरुक्त्यम् , इत्याह-

वीर्यमित्यादिना ।

वीर्यवतो विक्रमाव्यभिचारात् अर्थपौनरुक्त्यम् आशङ्क्य, आह-

वीर्यवानिति ।

भगवति लोकतो विशेषम् आह-

त्वं त्विति ।

उक्तं सर्वात्मत्वं प्रपञ्चयति-

सर्वमिति ।

सप्रपञ्चत्वं वारयति-

त्वयेति

॥ ४० ॥