श्रीभगवानुवाच —
सुदुर्दर्शमिदं रूपं
दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य
नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम् , इदं रूपं दृष्टवान् असि यत् मम, देवादयः अपि अस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणः ; दर्शनेप्सवोऽपि न त्वमिव दृष्टवन्तः, न द्रक्ष्यन्ति च इति अभिप्रायः ॥ ५२ ॥