श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
सुदुर्दर्शमिदं रूपं
दृष्टवानसि यन्मम
देवा अप्यस्य रूपस्य
नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम् , इदं रूपं दृष्टवान् असि यत् मम, देवादयः अपि अस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणः ; दर्शनेप्सवोऽपि त्वमिव दृष्टवन्तः, द्रक्ष्यन्ति इति अभिप्रायः ॥ ५२ ॥

उपास्यत्वाय विश्वरूपं स्तोतुं भगवदुक्तिम् उत्थापयति-

भगवानिति ।

त्वद् - व्यतिरिक्तानाम्  इदं रूपं द्रष्टुम् अशक्यम् इत्येतत् विशदयति-

देवादयः इति

॥ ५२ ॥