विमुक्ता - त्यक्ता रागाद्याख्या क्लेशनिमित्तभूता तिमिरशब्दितानाद्यज्ञानकृता दृष्टिः अविद्या मिथ्याधीः यस्य, तम् , इति विशिनष्टि -
विमुक्तेति ।
नित्ययुक्तत्वं माधयति -
अतीतेति ।
तत्र उक्तो योऽर्थः ‘मत्कर्मकृदि’ त्यादि, तस्मिन् निश्चयेन अयनम् - आयः, गमनम् , तस्य नियमेन अनुष्ठानम् , तेन, इत्यर्थः । उपासते - मयि स्मृतिं सदा कुर्वन्ति इत्यर्थः ।
उक्तोपासकानां युक्ततमत्वं व्यनक्ति -
नैरन्तर्येणेति ।
तदेव स्फुटयति -
अहोरात्रमिति ।
अह्नि च - रात्रौ च अतिमात्रम् - अतिशयेन मामेव विषयान्तरविमुक्ताः चिन्तयन्ति, इत्यर्थः
॥ २ ॥