श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥
मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः, ये भक्ताः सन्तः, मां सर्वयोगेश्वराणाम् अधीश्वरं सर्वज्ञं विमुक्तरागादिक्लेशतिमिरदृष्टिम् , नित्ययुक्ताः अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सततयुक्ताः सन्तः उपासते श्रद्धया परया प्रकृष्टया उपेताः, ते मे मम मताः अभिप्रेताः युक्ततमाः इतिनैरन्तर्येण हि ते मच्चित्ततया अहोरात्रम् अतिवाहयन्तिअतः युक्तं तान् प्रति युक्ततमाः इति वक्तुम् ॥ २ ॥

विमुक्ता - त्यक्ता रागाद्याख्या क्लेशनिमित्तभूता तिमिरशब्दितानाद्यज्ञानकृता दृष्टिः अविद्या मिथ्याधीः यस्य, तम्  , इति विशिनष्टि -

विमुक्तेति ।

नित्ययुक्तत्वं माधयति -

अतीतेति ।

तत्र उक्तो योऽर्थः ‘मत्कर्मकृदि’ त्यादि, तस्मिन् निश्चयेन अयनम् - आयः, गमनम् , तस्य नियमेन अनुष्ठानम् , तेन, इत्यर्थः । उपासते - मयि स्मृतिं सदा कुर्वन्ति इत्यर्थः ।

उक्तोपासकानां युक्ततमत्वं व्यनक्ति -

नैरन्तर्येणेति ।

तदेव स्फुटयति -

अहोरात्रमिति ।

अह्नि च - रात्रौ च अतिमात्रम् - अतिशयेन मामेव विषयान्तरविमुक्ताः चिन्तयन्ति, इत्यर्थः

॥ २ ॥