श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥
इदम् इति सर्वनाम्ना उक्तं विशिनष्टि शरीरम् इतिहे कौन्तेय, क्षतत्राणात् , क्षयात् , क्षरणात् , क्षेत्रवद्वा अस्मिन् कर्मफलनिष्पत्तेः क्षेत्रम् इतिइतिशब्दः एवंशब्दपदार्थकःक्षेत्रम् इत्येवम् अभिधीयते कथ्यतेएतत् शरीरं क्षेत्रं यः वेत्ति विजानाति, आपादतलमस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञः इतिइतिशब्दः एवंशब्दपदार्थकः एव पूर्ववत्क्षेत्रज्ञः इत्येवम् आहुःके ? तद्विदः तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः ॥ १ ॥

तत्र द्र्ष्टृत्वेन सङ्घातदृश्यात् अन्यम् आत्मानं निर्दिशति -

इदमिति ।

उक्तम् - प्रत्यक्षदृश्यविशिष्टं किञ्चित् इति शेषः ।

शरीरस्य आत्मनः अन्यत्वं क्षेत्रनामनिरुक्त्या ब्रूते -

क्षतेति ।

क्षयः - नाशः । क्षरणम् - अपक्षयः ।

यथा क्षेत्रे बीजम् उप्तं फलति, तद्वद् इत्याह -

क्षेत्रवद्वेति ।

क्षेत्रपदात् उपरिस्थितम् इतिपदं क्षेत्रशब्दविषयम् , अन्यथा वैयर्थ्यात् , इत्याह -

इतिशब्द इति ।

क्षेत्रमित्येवम् अनेन क्षेत्रशब्देन इत्यर्थः ।

दृश्यं देहम् उक्त्वा ततः अतिरिक्तं द्रष्टारम् आह -

एतदिति ।

स्वाभाविकं ‘मनुष्योऽहम् ‘ इति ज्ञानम् , अौपदेशिकम् ‘देहो नाऽत्मा दृष्यत्वात् ‘ इत्यादिविभागशः - स्वतोऽतिरिक्तत्वेन इत्यर्थः ।

क्षेत्रमित्यत्र इतिशब्दवत् अत्रापि इतिशब्दस्य क्षेत्रज्ञशब्दविषयत्वम् आह -

इतिशब्द इति ।

क्षेत्रज्ञ इत्येवम् - क्षेत्रज्ञशब्देन तं प्राहुः इति सम्बन्धः । प्रवक्त़ृन् प्रश्नपूर्वकम् आह - क इत्यादिना

॥ १ ॥