तत्र द्र्ष्टृत्वेन सङ्घातदृश्यात् अन्यम् आत्मानं निर्दिशति -
इदमिति ।
उक्तम् - प्रत्यक्षदृश्यविशिष्टं किञ्चित् इति शेषः ।
शरीरस्य आत्मनः अन्यत्वं क्षेत्रनामनिरुक्त्या ब्रूते -
क्षतेति ।
क्षयः - नाशः । क्षरणम् - अपक्षयः ।
यथा क्षेत्रे बीजम् उप्तं फलति, तद्वद् इत्याह -
क्षेत्रवद्वेति ।
क्षेत्रपदात् उपरिस्थितम् इतिपदं क्षेत्रशब्दविषयम् , अन्यथा वैयर्थ्यात् , इत्याह -
इतिशब्द इति ।
क्षेत्रमित्येवम् अनेन क्षेत्रशब्देन इत्यर्थः ।
दृश्यं देहम् उक्त्वा ततः अतिरिक्तं द्रष्टारम् आह -
एतदिति ।
स्वाभाविकं ‘मनुष्योऽहम् ‘ इति ज्ञानम् , अौपदेशिकम् ‘देहो नाऽत्मा दृष्यत्वात् ‘ इत्यादिविभागशः - स्वतोऽतिरिक्तत्वेन इत्यर्थः ।
क्षेत्रमित्यत्र इतिशब्दवत् अत्रापि इतिशब्दस्य क्षेत्रज्ञशब्दविषयत्वम् आह -
इतिशब्द इति ।
क्षेत्रज्ञ इत्येवम् - क्षेत्रज्ञशब्देन तं प्राहुः इति सम्बन्धः । प्रवक्त़ृन् प्रश्नपूर्वकम् आह - क इत्यादिना
॥ १ ॥