न तावद् अविद्य संसारं संसारिणं च कल्पयति स्वतन्त्रा, तत्वव्याधातात् ; पारतन्त्र्ये च आश्रयान्तराभावात् क्षेत्रज्ञस्य तद्वत्त्वे संसारित्वम् , इति शङ्कते -
नन्विति ।
न च अविद्यावत्त्वम् अविद्याकृतम् अनवस्थानात् , इति भावः ।
यत्तु - उत्खातर्दष्ट्वोरगवत् अविद्या किं करिष्यति - इति, तत्राह -
तत्कृतं चेति ।
अविद्यातज्जयोः ज्ञेयत्वात् न आत्मधर्मता इति उत्तरम् आह -
नेत्यादिना ।
तदेव प्रपञ्चयति -
यावदिति ।
ज्ञेयस्य क्षेत्रधर्मत्वेऽपि क्षेत्रद्वारा क्षेत्रज्ञस्य तत्कृतदोषवत्ता, इत्याशङ्कय, आह -
न चेति ।
क्षेवस्यापि ज्ञेयत्वात् न तेन चितः वस्तुतः स्पर्शोऽस्ति, इति उपपादयति -
यदीति ।
धर्मर्धामत्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिः? इत्याशङ्क्य, आह -
यदीति ।
आत्मधर्मस्य आत्मना ज्ञेयत्वे, स्वस्यापि ज्ञेयत्वापत्त्या कर्तृकर्मविरोधः स्यात् , इत्यर्थः ।
किं च, विमतम् , न क्षेत्रज्ञाश्रितम् , तद्वेद्यत्वात् , रूपादिवत् , इत्यह -
कथं वेति ।
किं च, ‘महाभूतानि’ इत्यादिना ज्ञेयमात्रस्य क्षेत्रान्तर्भावात् न अविद्यादेः ज्ञातृधर्मता इत्याह -
ज्ञेयं चेति ।
किञ्च, ‘एतद्यो वेत्ति’ (भ. गी. १३-१) इत्युक्तत्वात् क्षेत्रज्ञस्य ज्ञातृत्वनिर्णयात् , न नत्र ज्ञेयं किञ्चित् प्रविशति, इत्याह -
ज्ञातैवेति ।
क्षेत्रक्षेत्रज्ञयोः एवंस्वाभाव्ये सिद्धेसिद्धं क्षेवधर्मत्वम् अविद्यादेः, इति फलितम् आह -
इत्यवधारित इति ।
विरोधाच्च न क्षेत्रज्ञधर्मत्वम् अविद्यादेः, इत्याह -
क्षेत्रज्ञेति ।
विरूद्धवादित्वे मूलं दर्शयति -
अविद्येति ।