श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु अविद्यावत्त्वमेव क्षेत्रज्ञस्य संसारित्वदोषःतत्कृतं सुखित्वदुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत् , ; ज्ञेयस्य क्षेत्रधर्मत्वात् , ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेःयावत् किञ्चित् क्षेत्रज्ञस्य दोषजातम् अविद्यमानम् आसञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्रधर्मत्वमेव, क्षेत्रज्ञधर्मत्वम् तेन क्षेत्रज्ञः दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेःयदि हि संसर्गः स्यात् , ज्ञेयत्वमेव नोपपद्येतयदि आत्मनः धर्मः अविद्यावत्त्वं दुःखित्वादि कथं भोः प्रत्यक्षम् उपलभ्यते, कथं वा क्षेत्रज्ञधर्मः । ‘ज्ञेयं सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञःइति अवधारिते, ‘अविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वं क्षेत्रज्ञधर्मत्वं तस्य प्रत्यक्षोपलभ्यत्वम्इति विरुद्धम् उच्यते अविद्यामात्रावष्टम्भात् केवलम्

न तावद् अविद्य संसारं संसारिणं च कल्पयति  स्वतन्त्रा, तत्वव्याधातात् ; पारतन्त्र्ये च आश्रयान्तराभावात् क्षेत्रज्ञस्य तद्वत्त्वे संसारित्वम् , इति शङ्कते -

नन्विति ।

न च अविद्यावत्त्वम् अविद्याकृतम् अनवस्थानात् , इति भावः ।

यत्तु - उत्खातर्दष्ट्वोरगवत् अविद्या किं करिष्यति - इति, तत्राह -

तत्कृतं चेति ।

अविद्यातज्जयोः ज्ञेयत्वात् न आत्मधर्मता इति उत्तरम् आह -

नेत्यादिना ।

तदेव प्रपञ्चयति -

यावदिति ।

ज्ञेयस्य क्षेत्रधर्मत्वेऽपि क्षेत्रद्वारा क्षेत्रज्ञस्य तत्कृतदोषवत्ता, इत्याशङ्कय, आह -

न चेति ।

क्षेवस्यापि ज्ञेयत्वात् न तेन चितः वस्तुतः स्पर्शोऽस्ति, इति उपपादयति -

यदीति ।

धर्मर्धामत्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिः? इत्याशङ्क्य, आह -

यदीति ।

आत्मधर्मस्य आत्मना ज्ञेयत्वे, स्वस्यापि ज्ञेयत्वापत्त्या कर्तृकर्मविरोधः स्यात् , इत्यर्थः ।

किं च, विमतम् , न क्षेत्रज्ञाश्रितम् , तद्वेद्यत्वात् , रूपादिवत् , इत्यह -

कथं वेति ।

किं च, ‘महाभूतानि’ इत्यादिना ज्ञेयमात्रस्य क्षेत्रान्तर्भावात् न अविद्यादेः ज्ञातृधर्मता इत्याह -

ज्ञेयं चेति ।

किञ्च, ‘एतद्यो वेत्ति’ (भ. गी. १३-१) इत्युक्तत्वात् क्षेत्रज्ञस्य ज्ञातृत्वनिर्णयात् , न नत्र ज्ञेयं किञ्चित् प्रविशति, इत्याह -

ज्ञातैवेति ।

क्षेत्रक्षेत्रज्ञयोः एवंस्वाभाव्ये सिद्धेसिद्धं क्षेवधर्मत्वम् अविद्यादेः, इति फलितम् आह -

इत्यवधारित इति ।

विरोधाच्च न क्षेत्रज्ञधर्मत्वम् अविद्यादेः, इत्याह -

क्षेत्रज्ञेति ।

विरूद्धवादित्वे मूलं दर्शयति -

अविद्येति ।