श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञः वक्ष्यमाणविशेषणःयस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानात् अमृतत्वं भवति, तम् ज्ञेयं यत्तत्प्रवक्ष्यामि’ (भ. गी. १३ । १२) इत्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान्अधुना तु तज्ज्ञानसाधनगणममानित्वादिलक्षणम् , यस्मिन् सति तज्ज्ञेयविज्ञाने योग्यः अधिकृतः भवति, यत्परः संन्यासी ज्ञाननिष्ठः उच्यते, तम् अमानित्वादिगणं ज्ञानसाधनत्वात् ज्ञानशब्दवाच्यं विदधाति भगवान्

ननु - उक्ते क्षेत्रे, क्षेत्रज्ञो वक्तव्यः, तं हित्वा किमिति अन्यत् उच्यते? तत्राह -

क्षेत्रज्ञ इति ।

‘अनादिमत् ‘ इत्यादिना वक्ष्यमाणविशेषणं क्षेत्रज्ञं स्वयमेव भगवान् विवक्षितविशेषणसहितं  ‘ज्ञेयं यत्तत् ‘ इत्यादिना वक्ष्यति, इति सम्बन्धः ।

किमिति क्षेत्रज्ञो वक्ष्यते? तत्राह -

यस्येति ।

‘ज्ञेयं यत्तत् ‘ इत्यतः प्राक्तनग्रन्थस्य तात्पर्यमाह -

अधुनेति ।

अमानित्वादिलक्षणं विदधाति, इति उत्तरत्र सम्बन्धः ।

ज्ञानसाधनसमुदायबोधनं कुत्र उपयुज्यते? तत्राह -

यस्मिन्निति ।

योग्यमविकृतमेव विवृणोति -

यत्पर इति ।

‘एतज्ज्ञान ‘मिति वचनात् कथमिदं ज्ञानसाधनम् इत्याशङ्क्य, आह -

तमिति ।

तद्विधानस्य वक्तृद्वारा दार्ढ्यं सूचयति -

भगवानिति ।