ननु - उक्ते क्षेत्रे, क्षेत्रज्ञो वक्तव्यः, तं हित्वा किमिति अन्यत् उच्यते? तत्राह -
क्षेत्रज्ञ इति ।
‘अनादिमत् ‘ इत्यादिना वक्ष्यमाणविशेषणं क्षेत्रज्ञं स्वयमेव भगवान् विवक्षितविशेषणसहितं ‘ज्ञेयं यत्तत् ‘ इत्यादिना वक्ष्यति, इति सम्बन्धः ।
किमिति क्षेत्रज्ञो वक्ष्यते? तत्राह -
यस्येति ।
‘ज्ञेयं यत्तत् ‘ इत्यतः प्राक्तनग्रन्थस्य तात्पर्यमाह -
अधुनेति ।
अमानित्वादिलक्षणं विदधाति, इति उत्तरत्र सम्बन्धः ।
ज्ञानसाधनसमुदायबोधनं कुत्र उपयुज्यते? तत्राह -
यस्मिन्निति ।
योग्यमविकृतमेव विवृणोति -
यत्पर इति ।
‘एतज्ज्ञान ‘मिति वचनात् कथमिदं ज्ञानसाधनम् इत्याशङ्क्य, आह -
तमिति ।
तद्विधानस्य वक्तृद्वारा दार्ढ्यं सूचयति -
भगवानिति ।