ब्रह्मणः अस्तिशब्दावाच्यत्वे नरविषाणवत् नास्तित्वम् , इति अऩिष्टमाशङ्कते -
ननु इति ।
एवम् उक्तेऽपि ब्रह्मणि किमायातम् ? इत्याशङ्क्या, आह -
अथेति ।
ज्ञेयस्य अस्तिशब्दावाच्यत्वे व्याघातश्च, इत्याह -
विप्रतिषिद्धं चेति ।
अस्तिशब्दावाचयत्वात् अवस्तु ब्रह्म इत्यत्र अप्रयोजकत्वम् आह -
न तावदिति ।