श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
ननु तदस्ति, यद्वस्तु अस्तिशब्देन नोच्यतेअथ अस्तिशब्देन नोच्यते, नास्ति तत् ज्ञेयम्विप्रतिषिद्धं — ‘ज्ञेयं तत् , ’ ‘अस्तिशब्देन नोच्यतेइति तावन्नास्ति, नास्तिबुद्ध्यविषयत्वात्

ब्रह्मणः अस्तिशब्दावाच्यत्वे नरविषाणवत् नास्तित्वम् , इति अऩिष्टमाशङ्कते -

ननु इति ।

एवम् उक्तेऽपि ब्रह्मणि किमायातम् ? इत्याशङ्क्या, आह -

अथेति ।

ज्ञेयस्य अस्तिशब्दावाच्यत्वे व्याघातश्च, इत्याह -

विप्रतिषिद्धं चेति ।

अस्तिशब्दावाचयत्वात् अवस्तु ब्रह्म इत्यत्र अप्रयोजकत्वम् आह -

न तावदिति ।