तद्धि प्रतिदेहं नभोवत् एकम् , तद् - भेदेमानाभावात् , भिन्नत्वे च घटवत् अनात्मत्वापातात् अतः अद्वितीयम् , सर्वत्र प्रत्यग्भूतं ज्ञेयं नास्तीति अतिसाहसम् इत्याह -
अविभक्तं चेति ।
कथं तर्हि देहादेः भेदधीः? इत्याशङ्क्य कल्पनया इत्याह - भूतेष्विति । तत्र हेतुः-
देहेष्विति ।
कार्याणां स्थितिहेतुत्वाच्च ज्ञेयमस्ति, इत्याह -
भूतेति ।
निमित्तोपादानतया तेषां प्रलये प्रभवे च कारणत्वाच्च तदस्ति, इत्याह -
प्रलयेति ।
तहि कार्यकारणत्वस्य वस्तुत्वात् नाद्वैतम् , इत्याशङ्क्य, आह - यथेति
॥ १६ ॥