ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥
ज्योतिषाम् आदित्यादीनामपि तत् ज्ञेयं ज्योतिः । आत्मचैतन्यज्योतिषा इद्धानि हि आदित्यादीनि ज्योतींषि दीप्यन्ते, ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९) ‘तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इत्यादिश्रुतिभ्यः ; स्मृतेश्च इहैव — ‘यदादित्यगतं तेजः’ (भ. गी. १५ । १२) इत्यादेः । तमसः अज्ञानात् परम् अस्पृष्टम् उच्यते । ज्ञानादेः दुःसम्पादनबुद्ध्या प्राप्तावसादस्य उत्तम्भनार्थमाह — ज्ञानम् अमानित्वादि ; ज्ञेयम् ‘ज्ञेयं यत् तत् प्रवक्ष्यामि’ (भ. गी. १३ । १२) इत्यादिना उक्तम् ; ज्ञानगम्यम् ज्ञेयमेव ज्ञातं सत् ज्ञानफलमिति ज्ञानगम्यमुच्यते ; ज्ञायमानं तु ज्ञेयम् । तत् एतत् त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण स्थितम् । तत्रैव हि त्रयं विभाव्यते ॥ १७ ॥