पुरुषस्य अनादित्वकृतं बन्धहेतुत्वमाह -
पुरुष इति ।
पूर्वार्धं व्याचष्टे - कार्यमित्यादिना । ज्ञानेन्द्रियपञ्चकम् , कर्मेन्द्रियपञ्चकम् , मनः, बुद्धिः, अहङ्कारश्च इति त्रयोदश करणानि । तथापि, भूतानां विषयाणां च ग्रहणात् कथं तेषां प्रकृतिकार्यता? इत्याशङ्क्य, आह -
देहेति ।
तथापि, गुणानां इहाग्रहणात् न प्रकृतिकार्यत्वम् , तत्राह -
गुणाश्चेति ।
उक्तरीत्या निष्पन्नमर्थमाह -
एवमिति ।
पाठान्तरमनूद्य व्याख्यापूर्वकम् अर्थाभेदमाह -
कार्येत्यादिना ।
व्याख्यान्तरमाह -
अथवेति ।
एकादश इन्द्रियाणि, पञ्चविषया इति षोडशसङ्ख्याकविकारः अत्र कार्यशब्दार्थः, महान् , अहङ्कारः, भूततन्मात्राणि, मूलप्रकृतिः इत्यर्थः ।
उत्तरार्धस्य तात्पर्यम् आह -
पुरुषश्चेति ।
तस्य परमात्मत्वं व्यवच्छिनत्ति -
जीव इति ।
तस्य प्राणधारणनिमित्तस्य तदर्थं चेतनत्वमाह -
क्षेत्रज्ञ इति ।
तस्य अनौपाधिकत्वं वारयति - -
भोक्तेति ।