श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥
कार्यकरणकर्तृत्वेकार्यं शरीरं करणानि तत्स्थानि त्रयोदशदेहस्यारम्भकाणि भूतानि पञ्च विषयाश्च प्रकृतिसम्भवाः विकाराः पूर्वोक्ताः इह कार्यग्रहणेन गृह्यन्तेगुणाश्च प्रकृतिसम्भवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्तेतेषां कार्यकरणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्यकरणकर्तृत्वं तस्मिन् कार्यकरणकर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिः उच्यतेएवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिःकार्यकारणकर्तृत्वे इत्यस्मिन्नपि पाठे, कार्यं यत् यस्य परिणामः तत् तस्य कार्यं विकारः विकारि कारणं तयोः विकारविकारिणोः कार्यकारणयोः कर्तृत्वे इतिअथवा, षोडश विकाराः कार्यं सप्त प्रकृतिविकृतयः कारणम् तान्येव कार्यकारणान्युच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिः उच्यते, आरम्भकत्वेनैवपुरुषश्च संसारस्य कारणं यथा स्यात् तत् उच्यतेपुरुषः जीवः क्षेत्रज्ञः भोक्ता इति पर्यायः, सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुः उच्यते

पुरुषस्य अनादित्वकृतं बन्धहेतुत्वमाह -

पुरुष इति ।

पूर्वार्धं व्याचष्टे - कार्यमित्यादिना । ज्ञानेन्द्रियपञ्चकम् ,  कर्मेन्द्रियपञ्चकम् , मनः, बुद्धिः, अहङ्कारश्च इति त्रयोदश करणानि । तथापि, भूतानां विषयाणां च ग्रहणात् कथं तेषां प्रकृतिकार्यता? इत्याशङ्क्य, आह -

देहेति ।

तथापि, गुणानां इहाग्रहणात् न प्रकृतिकार्यत्वम् , तत्राह -

गुणाश्चेति ।

उक्तरीत्या निष्पन्नमर्थमाह -

एवमिति ।

पाठान्तरमनूद्य व्याख्यापूर्वकम् अर्थाभेदमाह -

कार्येत्यादिना ।

व्याख्यान्तरमाह -

अथवेति ।

एकादश इन्द्रियाणि, पञ्चविषया इति षोडशसङ्ख्याकविकारः अत्र कार्यशब्दार्थः, महान् , अहङ्कारः, भूततन्मात्राणि, मूलप्रकृतिः इत्यर्थः ।

उत्तरार्धस्य तात्पर्यम् आह -

पुरुषश्चेति ।

तस्य परमात्मत्वं व्यवच्छिनत्ति -

जीव इति ।

तस्य प्राणधारणनिमित्तस्य तदर्थं चेतनत्वमाह -

क्षेत्रज्ञ इति ।

तस्य अनौपाधिकत्वं वारयति - -

भोक्तेति ।