श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥
कार्यकरणकर्तृत्वे — कार्यं शरीरं करणानि तत्स्थानि त्रयोदश । देहस्यारम्भकाणि भूतानि पञ्च विषयाश्च प्रकृतिसम्भवाः विकाराः पूर्वोक्ताः इह कार्यग्रहणेन गृह्यन्ते । गुणाश्च प्रकृतिसम्भवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्यकरणकर्तृत्वं तस्मिन् कार्यकरणकर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिः उच्यते । एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिः । कार्यकारणकर्तृत्वे इत्यस्मिन्नपि पाठे, कार्यं यत् यस्य परिणामः तत् तस्य कार्यं विकारः विकारि कारणं तयोः विकारविकारिणोः कार्यकारणयोः कर्तृत्वे इति । अथवा, षोडश विकाराः कार्यं सप्त प्रकृतिविकृतयः कारणम् तान्येव कार्यकारणान्युच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिः उच्यते, आरम्भकत्वेनैव । पुरुषश्च संसारस्य कारणं यथा स्यात् तत् उच्यते — पुरुषः जीवः क्षेत्रज्ञः भोक्ता इति पर्यायः, सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुः उच्यते ॥

पुरुषस्य अनादित्वकृतं बन्धहेतुत्वमाह -

पुरुष इति ।

पूर्वार्धं व्याचष्टे - कार्यमित्यादिना । ज्ञानेन्द्रियपञ्चकम् ,  कर्मेन्द्रियपञ्चकम् , मनः, बुद्धिः, अहङ्कारश्च इति त्रयोदश करणानि । तथापि, भूतानां विषयाणां च ग्रहणात् कथं तेषां प्रकृतिकार्यता? इत्याशङ्क्य, आह -

देहेति ।

तथापि, गुणानां इहाग्रहणात् न प्रकृतिकार्यत्वम् , तत्राह -

गुणाश्चेति ।

उक्तरीत्या निष्पन्नमर्थमाह -

एवमिति ।

पाठान्तरमनूद्य व्याख्यापूर्वकम् अर्थाभेदमाह -

कार्येत्यादिना ।

व्याख्यान्तरमाह -

अथवेति ।

एकादश इन्द्रियाणि, पञ्चविषया इति षोडशसङ्ख्याकविकारः अत्र कार्यशब्दार्थः, महान् , अहङ्कारः, भूततन्मात्राणि, मूलप्रकृतिः इत्यर्थः ।

उत्तरार्धस्य तात्पर्यम् आह -

पुरुषश्चेति ।

तस्य परमात्मत्वं व्यवच्छिनत्ति -

जीव इति ।

तस्य प्राणधारणनिमित्तस्य तदर्थं चेतनत्वमाह -

क्षेत्रज्ञ इति ।

तस्य अनौपाधिकत्वं वारयति - -

भोक्तेति ।