स्वरूपत्वेन स्वभूतत्वं वारयति -
मदीयेति ।
ईश्वरीं चिच्छक्तिं व्यावर्तयति -
त्रिगुणात्मिकेति ।
साङ्ख्यीयप्रकृतिरपि मदीया, इति व्यावर्तिता ।
योनिशब्देन सर्वाणि भवनयोग्यानि कार्याणि प्रति उपादानत्वम् अभिप्रेतम् , इत्याह -
सर्वभूतानाम् इति ।
प्रकृतेः महत्वं साधयति -
सर्वेति ।
सर्वकार्यव्याप्तिम् आदाय, योनावेव ब्रह्मशब्दः ।
लिङ्गवैषम्यात् महद्ब्रह्म इति अर्थान्तरं किञ्चित् , इत्याशङ्क्य आह -
योनिरिति ।
तस्मिन्नित्यादि व्याचष्टे -
तस्मिन्निति ।
ईदृशस्य क्षेत्रक्षेत्रज्ञसंयोगस्य भूतकारणत्वम् इति वक्तुम् उपक्रम्य, किमिदम् अन्यत् आदर्शितम् , इत्याशङ्क्य आह -
क्षेत्रेति ।
गर्भशब्देन उक्तसंयोगस्य फलं दर्शयति -
सम्भव इति ।
‘आदिकर्ता स भूतानाम् ‘ इति स्मृत्या हिरण्यगर्भकार्यत्वावगमात् भूतानां, कथं यथोक्तगर्भाधाननिमित्तत्वम् ? इत्याशङ्क्य आह -
हिरण्यगर्भेति
॥ ३ ॥