श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥
यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देहभृत् आत्मा, तदा उत्तमविदां महदादितत्त्वविदाम् इत्येतत् , लोकान् अमलान् मलरहितान् प्रतिपद्यते प्राप्नोति इत्येतत् ॥ १४ ॥

तत्र सत्त्वगुणवृद्धिकृतफलविशेषम् आह -

यदेति ।

मलरहितान् - रजस्तमसोः अन्यतरस्य उद्भवो मलम् , तेन रहितान् , आगमसिद्धान् ब्रह्मलोकादीन् इत्यर्थः

॥ १४ ॥