श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥
रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायतेतथा तद्वदे प्रलीनः मृतः तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते ॥ १५ ॥

रजस्समुद्रेके मृतस्य फलविशेषम् दर्शयति -

रजसीति ।

जायते, शरीरं गृह्णाति, इत्यर्थः ।

यथा सत्त्वे रजसि च प्रवृद्धे मृतो ब्रह्मलोकादिषु मनुष्यलोके च, देवादिषु मनुष्येषु च जायते, तथैव इत्याह -

तद्वदिति

॥ १५ ॥