श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उदासीनवदासीनो गुणैर्यो विचाल्यते
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥
उदासीनवत् यथा उदासीनः न कस्यचित् पक्षं भजते, तथा अयं गुणातीतत्वोपायमार्गेऽवस्थितः आसीनः आत्मवित् गुणैः यः संन्यासी न विचाल्यते विवेकदर्शनावस्थातः । तदेतत् स्फुटीकरोति — गुणाः कार्यकरणविषयाकारपरिणताः अन्योऽन्यस्मिन् वर्तन्ते इति यः अवतिष्ठति । छन्दोभङ्गभयात् परस्मैपदप्रयोगः । योऽनुतिष्ठतीति वा पाठान्तरम् । न इङ्गते न चलति, स्वरूपावस्थ एव भवति इत्यर्थः ॥ २३ ॥

दृष्टान्तं व्याचष्टे -

यथेति ।

उपेक्षकस्य पक्षपाते तत्त्वायोगात् , इत्यर्थः ।

आत्मवित् आत्मकौटस्थ्यज्ञानेन आसीनो निवृत्तकर्मत्वाभिमानः अप्रयतमानो भवति इति दार्ष्टान्तिकम् आह -

तथेति ।

गुणातीतत्वोपायमार्गः ज्ञानमेव । शब्दादिभिः विषयैः अस्य कूटस्थत्वज्ञानात् प्रच्यवनम् आशङ्क्य आह -

गुणैरिति ।

उपनतानां विषयाणां रागद्वेषद्वारा प्रवर्तकत्वम् इत्येतत् प्रपञ्चयति -

तदेतदिति ।

योऽवतिष्ठति, सः गुणातीतः - इति उत्तरत्र सम्बन्धः ।

अवपूर्वस्य तिष्ठतेः आत्मनेपदे प्रयोक्तव्ये, कथं परस्मैपदम् ? इत्याशङ्क्य आह -

छन्दोभङ्गेति ।

पाठान्तरे तु बाधितानुवृत्तिमात्रम् अनुष्ठानम् ।

करणाकारपरिणतानां गुणानां विषयाकारपरिणतेषु तेषु प्रवृत्तिः, न मम - इति पश्यन् अचलतया कूटस्थदृष्टिम् आत्मनो न जहाति इत्याह -

नेङ्गत इति

॥ २३ ॥