दृष्टान्तं व्याचष्टे -
यथेति ।
उपेक्षकस्य पक्षपाते तत्त्वायोगात् , इत्यर्थः ।
आत्मवित् आत्मकौटस्थ्यज्ञानेन आसीनो निवृत्तकर्मत्वाभिमानः अप्रयतमानो भवति इति दार्ष्टान्तिकम् आह -
तथेति ।
गुणातीतत्वोपायमार्गः ज्ञानमेव । शब्दादिभिः विषयैः अस्य कूटस्थत्वज्ञानात् प्रच्यवनम् आशङ्क्य आह -
गुणैरिति ।
उपनतानां विषयाणां रागद्वेषद्वारा प्रवर्तकत्वम् इत्येतत् प्रपञ्चयति -
तदेतदिति ।
योऽवतिष्ठति, सः गुणातीतः - इति उत्तरत्र सम्बन्धः ।
अवपूर्वस्य तिष्ठतेः आत्मनेपदे प्रयोक्तव्ये, कथं परस्मैपदम् ? इत्याशङ्क्य आह -
छन्दोभङ्गेति ।
पाठान्तरे तु बाधितानुवृत्तिमात्रम् अनुष्ठानम् ।
करणाकारपरिणतानां गुणानां विषयाकारपरिणतेषु तेषु प्रवृत्तिः, न मम - इति पश्यन् अचलतया कूटस्थदृष्टिम् आत्मनो न जहाति इत्याह -
नेङ्गत इति
॥ २३ ॥