श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उदासीनवदासीनो गुणैर्यो विचाल्यते
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥
उदासीनवत् यथा उदासीनः कस्यचित् पक्षं भजते, तथा अयं गुणातीतत्वोपायमार्गेऽवस्थितः आसीनः आत्मवित् गुणैः यः संन्यासी विचाल्यते विवेकदर्शनावस्थातःतदेतत् स्फुटीकरोतिगुणाः कार्यकरणविषयाकारपरिणताः अन्योऽन्यस्मिन् वर्तन्ते इति यः अवतिष्ठतिछन्दोभङ्गभयात् परस्मैपदप्रयोगःयोऽनुतिष्ठतीति वा पाठान्तरम् इङ्गते चलति, स्वरूपावस्थ एव भवति इत्यर्थः ॥ २३ ॥

दृष्टान्तं व्याचष्टे -

यथेति ।

उपेक्षकस्य पक्षपाते तत्त्वायोगात् , इत्यर्थः ।

आत्मवित् आत्मकौटस्थ्यज्ञानेन आसीनो निवृत्तकर्मत्वाभिमानः अप्रयतमानो भवति इति दार्ष्टान्तिकम् आह -

तथेति ।

गुणातीतत्वोपायमार्गः ज्ञानमेव । शब्दादिभिः विषयैः अस्य कूटस्थत्वज्ञानात् प्रच्यवनम् आशङ्क्य आह -

गुणैरिति ।

उपनतानां विषयाणां रागद्वेषद्वारा प्रवर्तकत्वम् इत्येतत् प्रपञ्चयति -

तदेतदिति ।

योऽवतिष्ठति, सः गुणातीतः - इति उत्तरत्र सम्बन्धः ।

अवपूर्वस्य तिष्ठतेः आत्मनेपदे प्रयोक्तव्ये, कथं परस्मैपदम् ? इत्याशङ्क्य आह -

छन्दोभङ्गेति ।

पाठान्तरे तु बाधितानुवृत्तिमात्रम् अनुष्ठानम् ।

करणाकारपरिणतानां गुणानां विषयाकारपरिणतेषु तेषु प्रवृत्तिः, न मम - इति पश्यन् अचलतया कूटस्थदृष्टिम् आत्मनो न जहाति इत्याह -

नेङ्गत इति

॥ २३ ॥