मानः - सत्कारः । तिरस्कारः - अपमानः । परदृष्ट्या यौ सखिशत्रू तयोः पक्षयोः निर्विशेषः - न कस्यचित् पक्षे तिष्ठति इत्याह -
तुल्य इति ।
विदुषो मित्रादिबुद्ध्यभावात् तुल्यो मित्रारिपक्षयोः इति अयुक्तम् , इत्याशङ्क्य आह -
यद्यपीति ।
सर्वकर्मत्यागे देहधारणमपि निमित्ताभावात् न स्यात् , इत्याशङ्क्य आह -
देहेति ।
उक्तविशेषणो गुणातीतो ज्ञातव्यः, इत्याह -
गुणेति ।
यदुक्तम् उपेक्षकत्वादि, तत् विद्योदयात् पूर्वं यत्नसाध्यं विद्याधिकारिणा ज्ञानसाधनत्वेन अनुष्ठेयं, उत्पन्नायां तु विद्यायां जीवन्मुक्तस्य उक्तधर्मजातं स्थिरीभूतं स्वानुभवसिद्धलक्षणत्वेन तिष्ठति, इति उक्ते धर्मजाते विभागं दर्शयति -
उदासीनवदित्यादिना
॥ २५ ॥