श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः
सर्वारम्भपरित्यागी गुणातीतः उच्यते ॥ २५ ॥
मानापमानयोः तुल्यः समः निर्विकारः ; तुल्यः मित्रारिपक्षयोः, यद्यपि उदासीना भवन्ति केचित् स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारिपक्षयोरिव भवन्ति इति तुल्यो मित्रारिपक्षयोः इत्याहसर्वारम्भपरित्यागी, दृष्टादृष्टार्थानि कर्माणि आरभ्यन्ते इति आरम्भाः, सर्वान् आरम्भान् परित्यक्तुं शीलम् अस्य इति सर्वारम्भपरित्यागी, देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरित्यागी इत्यर्थःगुणातीतः सः उच्यते उदासीनवत्’ (भ. गी. १४ । २३) इत्यादि गुणातीतः उच्यते’ (भ. गी. १४ । २५) इत्येतदन्तम् उक्तं यावत् यत्नसाध्यं तावत् संन्यासिनः अनुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः ; स्थिरीभूतं तु स्वसंवेद्यं सत् गुणातीतस्य यतेः लक्षणं भवति इति । ॥ २५ ॥

मानः - सत्कारः । तिरस्कारः - अपमानः । परदृष्ट्या यौ सखिशत्रू तयोः पक्षयोः निर्विशेषः - न कस्यचित् पक्षे तिष्ठति इत्याह -

तुल्य इति ।

विदुषो मित्रादिबुद्ध्यभावात् तुल्यो मित्रारिपक्षयोः इति अयुक्तम् , इत्याशङ्क्य आह -

यद्यपीति ।

सर्वकर्मत्यागे देहधारणमपि निमित्ताभावात् न स्यात् , इत्याशङ्क्य आह -

देहेति ।

उक्तविशेषणो गुणातीतो ज्ञातव्यः, इत्याह -

गुणेति ।

यदुक्तम् उपेक्षकत्वादि, तत् विद्योदयात् पूर्वं यत्नसाध्यं विद्याधिकारिणा ज्ञानसाधनत्वेन अनुष्ठेयं, उत्पन्नायां तु विद्यायां जीवन्मुक्तस्य उक्तधर्मजातं स्थिरीभूतं स्वानुभवसिद्धलक्षणत्वेन तिष्ठति, इति उक्ते धर्मजाते विभागं दर्शयति -

उदासीनवदित्यादिना

॥ २५ ॥