नाशसम्भावनायै वृक्षरूपकं बन्धहेतोः दर्शयति -
ऊर्ध्वमूलमिति ।
कथं कालतः सूक्ष्यत्वम् ? तदाह -
कारणत्वादिति ।
तदेव कथं? कार्यापेक्षया नियतपूर्वभावित्वात् , इत्याह -
नित्यत्वादिति ।
सर्वव्यापित्वाच्च उत्कर्षं सम्भावयति -
महत्वाच्चेति ।
ऊर्ध्वं - उच्छ्रितं - उत्कृष्टम् इति यावत् ।
तस्य कूटस्थस्य कथं मूलत्वम् इत्याशङ्क्य, आह -
अव्यक्तेति ।
स्मृतिमूलत्वेन श्रुतिमुदाहरति -
श्रुतेश्चेति ।
अवाञ्च्यः - निकृष्टाः, शाखा इव महादाद्या यस्य, सः, तथा प्रकृते संसारवृक्षे पुराणसंमतिम् आह -
पुराणे चेति ।