श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्
छन्दांसि यस्य पर्णानि यस्तं वेद वेदवित् ॥ १ ॥
ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्त्वाच्च ऊर्ध्वम् ; उच्यते ब्रह्म अव्यक्तं मायाशक्तिमत् , तत् मूलं अस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलःश्रुतेश्चऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः’ (क. उ. २ । ३ । १) इतिपुराणे

नाशसम्भावनायै वृक्षरूपकं बन्धहेतोः दर्शयति -

ऊर्ध्वमूलमिति ।

कथं कालतः सूक्ष्यत्वम् ? तदाह -

कारणत्वादिति ।

तदेव कथं? कार्यापेक्षया नियतपूर्वभावित्वात् , इत्याह -

नित्यत्वादिति ।

सर्वव्यापित्वाच्च उत्कर्षं सम्भावयति -

महत्वाच्चेति ।

ऊर्ध्वं - उच्छ्रितं - उत्कृष्टम् इति यावत् ।

तस्य कूटस्थस्य कथं मूलत्वम् इत्याशङ्क्य, आह -

अव्यक्तेति ।

स्मृतिमूलत्वेन श्रुतिमुदाहरति -

श्रुतेश्चेति ।

अवाञ्च्यः - निकृष्टाः, शाखा इव महादाद्या यस्य, सः, तथा प्रकृते संसारवृक्षे पुराणसंमतिम् आह -

पुराणे चेति ।