श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥
यतन्तः प्रयत्नं कुर्वन्तः योगिनश्च समाहितचित्ताः एनं प्रकृतम् आत्मानं पश्यन्तिअयम् अहम् अस्मिइति उपलभन्ते आत्मनि स्वस्यां बुद्धौ अवस्थितम्यतन्तोऽपि शास्त्रादिप्रमाणैः, अकृतात्मानः असंस्कृतात्मानः तपसा इन्द्रियजयेन , दुश्चरितात् अनुपरताः, अशान्तदर्पाः, प्रयत्नं कुर्वन्तोऽपि एवं पश्यन्ति अचेतसः अविवेकिनः ॥ ११ ॥

असंस्कृतात्मत्वं प्रकटयति -

तपसेति ।

दुश्चरितात् अविरतिफलं कथयति -

अशान्तेति ।

अशुद्धबुद्धीनां - अविवेकिनां सदपि श्रवणादि न फलवत् , इति मत्वा आह -

प्रयत्नमिति

॥ ११ ॥