दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥
दैवी सम्पत् या, सा विमोक्षाय संसारबन्धनात् । निबन्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी सम्पत् मता अभिप्रेता । तथा राक्षसी च । तत्र एवम् उक्ते सति अर्जुनस्य अन्तर्गतं भावम् ‘किम् अहम् आसुरसम्पद्युक्तः ? किं वा दैवसम्पद्युक्तः ? ’ इत्येवम् आलोचनारूपम् आलक्ष्य आह भगवान् — मा शुचः शोकं मा कार्षीः । सम्पदं दैवीम् अभिजातः असि अभिलक्ष्य जातोऽसि, भाविकल्याणः त्वम् असि इत्यर्थः, हे पाण्डव ॥ ५ ॥