श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥
दैवी सम्पत् या, सा विमोक्षाय संसारबन्धनात्निबन्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी सम्पत् मता अभिप्रेतातथा राक्षसी तत्र एवम् उक्ते सति अर्जुनस्य अन्तर्गतं भावम्किम् अहम् आसुरसम्पद्युक्तः ? किं वा दैवसम्पद्युक्तः ? ’ इत्येवम् आलोचनारूपम् आलक्ष्य आह भगवान्मा शुचः शोकं मा कार्षीःसम्पदं दैवीम् अभिजातः असि अभिलक्ष्य जातोऽसि, भाविकल्याणः त्वम् असि इत्यर्थः, हे पाण्डव ॥ ५ ॥

कार्यं फलविभागः । आसुरी इति उपलक्षणं राक्षसी चेति द्रष्टव्यं इत्याह -

तथेति ।

फलविभागे सम्पदोः एवं उक्ते, प्रतीत्य अर्जुनस्य अभिप्रायं, भगवतो वचनं इत्याह -

तत्रेति ।

तत्र आभिजात्यं हेतुं करोति -

पाण्डवेति

॥ ५ ॥