आसुरीसम्पदं अभिजातैः अधर्मजातमेव सञ्चीयते, प्रवृत्तैरपि वैदिके कर्मणि, नैव पुण्यं इति उक्तम् । ब्रह्मज्ञानात् पुनः आसुराः दूरादेव उद्विजन्ते इति आह -
अहङ्कारमिति ।
अहङ्कारमेव स्फोरयति -
विद्यमानैरिति ।
अध्यारोपितवैशिष्ट्यविषयत्वात् अहङ्कारस्य अविद्यामूलत्वेन अविद्यात्मत्वं आह -
अविद्याख्य इति ।
विवेकिभिः तस्य अतियत्नादेव हेयत्वं सूचयति -
कष्टतम इति ।
तदेव स्पष्टयति -
सर्वेति ।
तं संश्रिताः इति सम्बन्धः ।
कर्याकरणसामर्थ्यं उक्तविशेषणं बलम् । अहङ्कार एव महदवधीरणापर्यन्तत्वेन परिणतः दर्पः । तं व्याकरोति -
नामेत्यादिना ।
अन्यांश्च दोषान् मात्सर्यादीन् । न केवलं उक्तमेव तेषां विशेषणम् , किन्तु कष्टतमं अस्ति विशेषणान्तरं इति आह -
किञ्चेति ।
यद्यपि ईश्वरं प्रति द्वेषः तेषां सम्भाव्यते, तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषः ? न हि तत्र भोक्तारं अन्तरेण ईश्वरस्य अवस्थानम् इति आशङ्क्य आह-
तद्बुद्धीति ।
तेषां ईश्वरं प्रति द्वेषमेव प्रकटयति -
मच्छासनेति ।
ईश्वरस्य शासनं - श्रुतिसमृतिरूपं तदतिवर्तित्वं - तदुक्तार्थज्ञानानुष्ठानपराङ्मुखत्वम्
॥ १८ ॥