श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहङ्कारं बलं दर्पं कामं क्रोधं संश्रिताः
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥
अहङ्कारं अहङ्करणम् अहङ्कारः, विद्यमानैः अविद्यमानैश्च गुणैः आत्मनि अध्यारोपितैःविशिष्टमात्मानमहम्इति मन्यते, सः अहङ्कारः अविद्याख्यः कष्टतमः, सर्वदोषाणां मूलं सर्वानर्थप्रवृत्तीनां , तम्तथा बलं पराभिभवनिमित्तं कामरागान्वितम्दर्पं दर्पो नाम यस्य उद्भवे धर्मम् अतिक्रामति सः अयम् अन्तःकरणाश्रयः दोषविशेषःकामं स्त्र्यादिविषयम्क्रोधम् अनिष्टविषयम्एतान् अन्यांश्च महतो दोषान् संश्रिताःकिञ्च ते माम् ईश्वरम् आत्मपरदेहेषु स्वदेहे परदेहेषु तद्बुद्धिकर्मसाक्षिभूतं मां प्रद्विषन्तः, मच्छासनातिवर्तित्वं प्रद्वेषः, तं कुर्वन्तः अभ्यसूयकाः सन्मार्गस्थानां गुणेषु असहमानाः ॥ १८ ॥

आसुरीसम्पदं अभिजातैः अधर्मजातमेव सञ्चीयते, प्रवृत्तैरपि वैदिके कर्मणि, नैव पुण्यं इति उक्तम् । ब्रह्मज्ञानात् पुनः आसुराः दूरादेव उद्विजन्ते इति आह -

अहङ्कारमिति ।

अहङ्कारमेव स्फोरयति -

विद्यमानैरिति ।

अध्यारोपितवैशिष्ट्यविषयत्वात् अहङ्कारस्य अविद्यामूलत्वेन अविद्यात्मत्वं आह -

अविद्याख्य इति ।

विवेकिभिः तस्य अतियत्नादेव हेयत्वं सूचयति -

कष्टतम इति ।

तदेव स्पष्टयति -

सर्वेति ।

तं संश्रिताः इति सम्बन्धः ।

कर्याकरणसामर्थ्यं उक्तविशेषणं बलम् । अहङ्कार एव महदवधीरणापर्यन्तत्वेन परिणतः दर्पः । तं व्याकरोति -

नामेत्यादिना ।

अन्यांश्च दोषान् मात्सर्यादीन् । न केवलं उक्तमेव तेषां विशेषणम् , किन्तु कष्टतमं अस्ति विशेषणान्तरं इति आह -

किञ्चेति ।

यद्यपि ईश्वरं प्रति द्वेषः तेषां सम्भाव्यते, तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषः ? न हि तत्र भोक्तारं अन्तरेण ईश्वरस्य अवस्थानम् इति आशङ्क्य आह-

तद्बुद्धीति ।

तेषां ईश्वरं प्रति द्वेषमेव प्रकटयति -

मच्छासनेति ।

ईश्वरस्य शासनं - श्रुतिसमृतिरूपं तदतिवर्तित्वं - तदुक्तार्थज्ञानानुष्ठानपराङ्मुखत्वम्

॥ १८ ॥