श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहङ्कारं बलं दर्पं कामं क्रोधं संश्रिताः
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥
अहङ्कारं अहङ्करणम् अहङ्कारः, विद्यमानैः अविद्यमानैश्च गुणैः आत्मनि अध्यारोपितैः ‘विशिष्टमात्मानमहम्’ इति मन्यते, सः अहङ्कारः अविद्याख्यः कष्टतमः, सर्वदोषाणां मूलं सर्वानर्थप्रवृत्तीनां च, तम् । तथा बलं पराभिभवनिमित्तं कामरागान्वितम् । दर्पं दर्पो नाम यस्य उद्भवे धर्मम् अतिक्रामति सः अयम् अन्तःकरणाश्रयः दोषविशेषः । कामं स्त्र्यादिविषयम् । क्रोधम् अनिष्टविषयम् । एतान् अन्यांश्च महतो दोषान् संश्रिताः । किञ्च ते माम् ईश्वरम् आत्मपरदेहेषु स्वदेहे परदेहेषु च तद्बुद्धिकर्मसाक्षिभूतं मां प्रद्विषन्तः, मच्छासनातिवर्तित्वं प्रद्वेषः, तं कुर्वन्तः अभ्यसूयकाः सन्मार्गस्थानां गुणेषु असहमानाः ॥ १८ ॥

आसुरीसम्पदं अभिजातैः अधर्मजातमेव सञ्चीयते, प्रवृत्तैरपि वैदिके कर्मणि, नैव पुण्यं इति उक्तम् । ब्रह्मज्ञानात् पुनः आसुराः दूरादेव उद्विजन्ते इति आह -

अहङ्कारमिति ।

अहङ्कारमेव स्फोरयति -

विद्यमानैरिति ।

अध्यारोपितवैशिष्ट्यविषयत्वात् अहङ्कारस्य अविद्यामूलत्वेन अविद्यात्मत्वं आह -

अविद्याख्य इति ।

विवेकिभिः तस्य अतियत्नादेव हेयत्वं सूचयति -

कष्टतम इति ।

तदेव स्पष्टयति -

सर्वेति ।

तं संश्रिताः इति सम्बन्धः ।

कर्याकरणसामर्थ्यं उक्तविशेषणं बलम् । अहङ्कार एव महदवधीरणापर्यन्तत्वेन परिणतः दर्पः । तं व्याकरोति -

नामेत्यादिना ।

अन्यांश्च दोषान् मात्सर्यादीन् । न केवलं उक्तमेव तेषां विशेषणम् , किन्तु कष्टतमं अस्ति विशेषणान्तरं इति आह -

किञ्चेति ।

यद्यपि ईश्वरं प्रति द्वेषः तेषां सम्भाव्यते, तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषः ? न हि तत्र भोक्तारं अन्तरेण ईश्वरस्य अवस्थानम् इति आशङ्क्य आह-

तद्बुद्धीति ।

तेषां ईश्वरं प्रति द्वेषमेव प्रकटयति -

मच्छासनेति ।

ईश्वरस्य शासनं - श्रुतिसमृतिरूपं तदतिवर्तित्वं - तदुक्तार्थज्ञानानुष्ठानपराङ्मुखत्वम्

॥ १८ ॥