यः शास्त्रविधिमुत्सृज्य
वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति
न सुखं न परां गतिम् ॥ २३ ॥
यः शास्त्रविधिं शास्त्रं वेदः तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन् , न सः सिद्धिं पुरुषार्थयोग्यताम् अवाप्नोति, न अपि अस्मिन् लोके सुखं न अपि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा ॥ २३ ॥