अर्जुन उवाच —
ये शास्त्रविधिमुत्सृज्य
यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण
सत्त्वमाहो रजस्तमः ॥ १ ॥
ये केचित् अविशेषिताः शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धया अन्विताः श्रद्धया आस्तिक्यबुद्ध्या अन्विताः संयुक्ताः सन्तः — श्रुतिलक्षणं स्मृतिलक्षणं वा कञ्चित् शास्त्रविधिम् अपश्यन्तः वृद्धव्यवहारदर्शनादेव श्रद्दधानतया ये देवादीन् पूजयन्ति, ते इह ‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः’ इत्येवं गृह्यन्ते । ये पुनः कञ्चित् शास्त्रविधिं उपलभमाना एव तम् उत्सृज्य अयथाविधि देवादीन् पूजयन्ति, ते इह ‘ये शास्त्रविधिमुत्सृज्य यजन्ते’ इति न परिगृह्यन्ते । कस्मात् ? श्रद्धया अन्वितत्वविशेषणात् । देवादिपूजाविधिपरं किञ्चित् शास्त्रं पश्यन्त एव तत् उत्सृज्य अश्रद्दधानतया तद्विहितायां देवादिपूजायां श्रद्धया अन्विताः प्रवर्तन्ते इति न शक्यं कल्पयितुं यस्मात् , तस्मात् पूर्वोक्ता एव ‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः’ इत्यत्र गृह्यन्ते तेषाम् एवंभूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः, किं सत्त्वं निष्ठा अवस्थानम् , आहोस्वित् रजः, अथवा तमः इति । एतत् उक्तं भवति — या तेषां देवादिविषया पूजा, सा किं सात्त्विकी, आहोस्वित् राजसी, उत तामसी इति ॥ १ ॥