श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
ये शास्त्रविधिमुत्सृज्य
यजन्ते श्रद्धयान्विताः
तेषां निष्ठा तु का कृष्ण
सत्त्वमाहो रजस्तमः ॥ १ ॥
ये केचित् अविशेषिताः शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धया अन्विताः श्रद्धया आस्तिक्यबुद्ध्या अन्विताः संयुक्ताः सन्तःश्रुतिलक्षणं स्मृतिलक्षणं वा कञ्चित् शास्त्रविधिम् अपश्यन्तः वृद्धव्यवहारदर्शनादेव श्रद्दधानतया ये देवादीन् पूजयन्ति, ते इहये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताःइत्येवं गृह्यन्तेये पुनः कञ्चित् शास्त्रविधिं उपलभमाना एव तम् उत्सृज्य अयथाविधि देवादीन् पूजयन्ति, ते इहये शास्त्रविधिमुत्सृज्य यजन्तेइति परिगृह्यन्तेकस्मात् ? श्रद्धया अन्वितत्वविशेषणात्देवादिपूजाविधिपरं किञ्चित् शास्त्रं पश्यन्त एव तत् उत्सृज्य अश्रद्दधानतया तद्विहितायां देवादिपूजायां श्रद्धया अन्विताः प्रवर्तन्ते इति शक्यं कल्पयितुं यस्मात् , तस्मात् पूर्वोक्ता एवये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताःइत्यत्र गृह्यन्ते तेषाम् एवंभूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः, किं सत्त्वं निष्ठा अवस्थानम् , आहोस्वित् रजः, अथवा तमः इतिएतत् उक्तं भवतिया तेषां देवादिविषया पूजा, सा किं सात्त्विकी, आहोस्वित् राजसी, उत तामसी इति ॥ १ ॥

यजन्ते इति यागग्रहणं दानादेः उपलक्षणम् । यदि वेदोक्तं विधिम् अपश्यन्तः तम् उत्सृजन्ति, कथं तर्हि श्रद्धघानाः यागादि कुर्वन्ति ? न हि मानं विना श्रद्धया यागादि कर्तुं शक्यम् ? इति आशङ्क्य आह -

श्रुतीति ।

ननु शास्त्रीयं विधिं पश्यन्तोऽपि केचित् तम् उपेक्ष्य स्वोत्प्रेक्षया यागादि कुर्वन्तः दृश्यन्ते, तेषाम् इह ये शास्त्रविधिमुत्सृज्य इति ग्राहः भविष्यति ? न इत्याह -

ये पुनरिति ।

तेषाम् अत्र अपरिग्रहे प्रश्नपूर्वकं हेतुम् आह -

कस्मादिति ।

शास्त्रज्ञानं तदुपेक्षावतां ग्रहेऽपि विशेषणम् अविरुद्धम् इति आशङ्क्य व्याघातात् मा एवम् इति आह -

देवादीति ।

अश्रद्धधानतया तत् उत्सृज्य इति सम्बन्धः ।

शास्त्रोक्तं विधिम् अधिगच्छतामपि, तम् अवधीर्य, स्वेच्छया देवपूजादौ प्रवृत्तानाम् आसुरेष्वेव अन्तर्भावः, यस्मात् अनन्तराध्याये सिद्धः, तस्मात् आस्तिकाधिकारे तेषां प्रसङ्गो नास्ति इति उपसंहरति -

यस्मादिति ।

पूर्वोक्ताः शास्त्रानभिज्ञाः । वृद्धव्यवहारानुसारिणः इति यावत् ।

तैः श्रद्धया क्रियमाणं कर्म कुत्र पर्यवस्यति ? इति पृच्छति -

तेषामिति ।

का निष्ठा ? इति एतत् विवृणोति -

सत्त्वमिति ।

कार्याणां कारणैः व्यपदेशम् आश्रित्य तात्पर्यम् आह -

एतदिति

॥ १ ॥