यजन्ते इति यागग्रहणं दानादेः उपलक्षणम् । यदि वेदोक्तं विधिम् अपश्यन्तः तम् उत्सृजन्ति, कथं तर्हि श्रद्धघानाः यागादि कुर्वन्ति ? न हि मानं विना श्रद्धया यागादि कर्तुं शक्यम् ? इति आशङ्क्य आह -
श्रुतीति ।
ननु शास्त्रीयं विधिं पश्यन्तोऽपि केचित् तम् उपेक्ष्य स्वोत्प्रेक्षया यागादि कुर्वन्तः दृश्यन्ते, तेषाम् इह ये शास्त्रविधिमुत्सृज्य इति ग्राहः भविष्यति ? न इत्याह -
ये पुनरिति ।
तेषाम् अत्र अपरिग्रहे प्रश्नपूर्वकं हेतुम् आह -
कस्मादिति ।
शास्त्रज्ञानं तदुपेक्षावतां ग्रहेऽपि विशेषणम् अविरुद्धम् इति आशङ्क्य व्याघातात् मा एवम् इति आह -
देवादीति ।
अश्रद्धधानतया तत् उत्सृज्य इति सम्बन्धः ।
शास्त्रोक्तं विधिम् अधिगच्छतामपि, तम् अवधीर्य, स्वेच्छया देवपूजादौ प्रवृत्तानाम् आसुरेष्वेव अन्तर्भावः, यस्मात् अनन्तराध्याये सिद्धः, तस्मात् आस्तिकाधिकारे तेषां प्रसङ्गो नास्ति इति उपसंहरति -
यस्मादिति ।
पूर्वोक्ताः शास्त्रानभिज्ञाः । वृद्धव्यवहारानुसारिणः इति यावत् ।
तैः श्रद्धया क्रियमाणं कर्म कुत्र पर्यवस्यति ? इति पृच्छति -
तेषामिति ।
का निष्ठा ? इति एतत् विवृणोति -
सत्त्वमिति ।
कार्याणां कारणैः व्यपदेशम् आश्रित्य तात्पर्यम् आह -
एतदिति
॥ १ ॥