मानसं तपः सङ्क्षिपति -
मनः इति ।
प्रशान्तिफलमेव व्यनक्ति -
स्वच्छतेति ।
मनसः स्वाच्छ्यम् अनाकुलता नैश्चिन्त्यम् इत्यर्थः ।
सौमनस्यं - सर्वेभ्यः हितैषित्वम् अहिताचिन्तनं च । तत् कथं गम्यते ? तत्र आह -
मुखादीति ।
तस्य स्वरूपम् आह -
अन्तःकरणस्येति ।
ननु मौनं वाङ्नियमनं वाङ्मये तपसि अन्तर्भवति । तत् कथं मानसे तपसि व्यपदिश्यते ? तत्र वाचः संयमस्य कार्यत्वात् , मनस्संयमस्य कारणत्वात् , कार्येण कारणग्रहणात् , मानसे तपसि मौनम् उक्तम् इत्याह -
वागिति ।
यद्वा मौनं मुनिभावः, मनसः आत्मनो मनसः विनिग्रहः निरोधः ।
नन्वेवं मौनस्य मनोनिग्रहस्य च मनःसंयमत्वेन एकत्वात् पौनरुक्त्यम् ? नेत्याह -
सर्वत इति ।
भावस्य हृदयस्य संशुद्धिः, रागादिमलविकलता इति व्याचष्टे -
परैरिति ।
मानसं - मनसा प्रधानेन निर्वर्त्यम् इति अर्थः
॥ १६ ॥