श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥
मनःप्रसादः मनसः प्रशान्तिः, स्वच्छतापादनं प्रसादः, सौम्यत्वं यत् सौमनस्यम् आहुःमुखादिप्रसादादिकार्योन्नेया अन्तःकरणस्य वृत्तिःमौनं वाङ्‌नियमोऽपि मनःसंयमपूर्वको भवति इति कार्येण कारणम् उच्यते मनःसंयमो मौनमितिआत्मविनिग्रहः मनोनिरोधः सर्वतः सामान्यरूपः आत्मविनिग्रहः, वाग्विषयस्यैव मनसः संयमः मौनम् इति विशेषःभावसंशुद्धिः परैः व्यवहारकाले अमायावित्वं भावसंशुद्धिःइत्येतत् तपः मानसम् उच्यते ॥ १६ ॥

मानसं तपः सङ्क्षिपति -

मनः इति ।

प्रशान्तिफलमेव व्यनक्ति -

स्वच्छतेति ।

मनसः स्वाच्छ्यम् अनाकुलता नैश्चिन्त्यम् इत्यर्थः ।

सौमनस्यं - सर्वेभ्यः हितैषित्वम् अहिताचिन्तनं च । तत् कथं गम्यते ? तत्र आह -

मुखादीति ।

तस्य स्वरूपम् आह -

अन्तःकरणस्येति ।

ननु मौनं वाङ्नियमनं वाङ्मये तपसि अन्तर्भवति । तत् कथं मानसे तपसि व्यपदिश्यते ? तत्र वाचः संयमस्य कार्यत्वात् , मनस्संयमस्य कारणत्वात् , कार्येण कारणग्रहणात् , मानसे तपसि मौनम् उक्तम् इत्याह -

वागिति ।

यद्वा मौनं मुनिभावः, मनसः आत्मनो मनसः विनिग्रहः निरोधः ।

नन्वेवं मौनस्य मनोनिग्रहस्य च मनःसंयमत्वेन एकत्वात् पौनरुक्त्यम् ? नेत्याह -

सर्वत इति ।

भावस्य हृदयस्य संशुद्धिः, रागादिमलविकलता इति व्याचष्टे -

परैरिति ।

मानसं - मनसा प्रधानेन निर्वर्त्यम् इति अर्थः

॥ १६ ॥