श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥
मनःप्रसादः मनसः प्रशान्तिः, स्वच्छतापादनं प्रसादः, सौम्यत्वं यत् सौमनस्यम् आहुः — मुखादिप्रसादादिकार्योन्नेया अन्तःकरणस्य वृत्तिः । मौनं वाङ्‌नियमोऽपि मनःसंयमपूर्वको भवति इति कार्येण कारणम् उच्यते मनःसंयमो मौनमिति । आत्मविनिग्रहः मनोनिरोधः सर्वतः सामान्यरूपः आत्मविनिग्रहः, वाग्विषयस्यैव मनसः संयमः मौनम् इति विशेषः । भावसंशुद्धिः परैः व्यवहारकाले अमायावित्वं भावसंशुद्धिः । इत्येतत् तपः मानसम् उच्यते ॥ १६ ॥

मानसं तपः सङ्क्षिपति -

मनः इति ।

प्रशान्तिफलमेव व्यनक्ति -

स्वच्छतेति ।

मनसः स्वाच्छ्यम् अनाकुलता नैश्चिन्त्यम् इत्यर्थः ।

सौमनस्यं - सर्वेभ्यः हितैषित्वम् अहिताचिन्तनं च । तत् कथं गम्यते ? तत्र आह -

मुखादीति ।

तस्य स्वरूपम् आह -

अन्तःकरणस्येति ।

ननु मौनं वाङ्नियमनं वाङ्मये तपसि अन्तर्भवति । तत् कथं मानसे तपसि व्यपदिश्यते ? तत्र वाचः संयमस्य कार्यत्वात् , मनस्संयमस्य कारणत्वात् , कार्येण कारणग्रहणात् , मानसे तपसि मौनम् उक्तम् इत्याह -

वागिति ।

यद्वा मौनं मुनिभावः, मनसः आत्मनो मनसः विनिग्रहः निरोधः ।

नन्वेवं मौनस्य मनोनिग्रहस्य च मनःसंयमत्वेन एकत्वात् पौनरुक्त्यम् ? नेत्याह -

सर्वत इति ।

भावस्य हृदयस्य संशुद्धिः, रागादिमलविकलता इति व्याचष्टे -

परैरिति ।

मानसं - मनसा प्रधानेन निर्वर्त्यम् इति अर्थः

॥ १६ ॥